|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.8. अध्यायः 008
Mahabharata - Strii Parva - Chapter Topics
व्यासेन धृतराष्ट्रस्य शोकापनोदनम्॥ 1 ॥

Mahabharata - Strii Parva - Chapter Text
वैशम्पायन उवाच। 11-8-0x(5326)(64975)
विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः।
पुत्रशोकाभिसन्तप्तः पपात भुवि मूर्छितः॥ 11-8-1(64976)
तं तथा पतितं भूमौ निःसंज्ञं प्रेक्ष्य बान्धवाः।
कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा॥ 11-8-2(64977)
सञ्जयः सुहृदश्चान्ये द्वास्था ये चास्य सम्मताः।
जलेन सुखशीतेन तालवृन्तैश्च भारत॥ 11-8-3(64978)
पस्पर्शुश्च करैर्गात्रं वीजमानाश्च यत्नतः।
अन्वासत चिरं कालं धृतराष्ट्रं तथाविधम्॥ 11-8-4(64979)
अथ दीर्घस्य कालस्य लब्धस़ञ्ज्ञो महीपतिः।
विललाप चिरं कालं पुत्राधिभिरभिप्लुतः॥ 11-8-5(64980)
धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम्।
यतोमूलानि दुःखानि सम्भवन्ति पुनःपुनः॥ 11-8-6(64981)
मित्रनाशेऽर्थनाशे च ज्ञातिसम्बन्धिनामपि।
प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो॥ 11-8-7(64982)
येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति।
येनाभिभूतः पुरुषो मरणं प्रतिपद्यते॥ 11-8-8(64983)
तदिदं मरणं प्राप्तं मया भाग्यविपर्ययात्।
[तस्यान्तं नाधिगच्छामि ऋते प्राणविमोक्षणात्] 11-8-9(64984)
तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम।
इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम्॥ 11-8-10(64985)
धृतराष्ट्रोऽभवन्मूढः स शोकं परमं गतः।
अभूच्च तूष्णीं राजाऽसौ ध्यायमानो महीपतिः॥ 11-8-11(64986)
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः।
पुत्रशोकाभिसन्तप्तं पुत्रं वचनमब्रवीत्॥ 11-8-12(64987)
व्यास उवाच। 11-8-13x(5327)
धृतराष्ट्र महाबाहो शृणु वक्ष्यामि पुत्रक।
श्रुतवानसि मेधावी धर्मार्थकुशलः प्रभो॥ 11-8-13(64988)
न तेऽस्त्यविदितं किञ्चिद्वेदितव्यं परन्तप।
अनित्यतां हि भूतानां विजानासि न संशयः॥ 11-8-14(64989)
अध्रुवे जीवलोके च स्थाने वा शाश्वते सति।
जीविते मरणान्ते च कस्माच्छोचसि पुत्रक॥ 11-8-15(64990)
प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः।
पुत्रं ते कारणं कृत्वा कालयोगेन निर्मितः॥ 11-8-16(64991)
अवश्यं भवितव्ये च कुरूणां सङ्क्षये नृप।
कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम्॥ 11-8-17(64992)
जानता च महाबाहो विदुरेण महात्मना।
यतितं सर्वयत्नेन शमं प्रति जनेश्वर॥ 11-8-18(64993)
न च दैवकृतो मार्गः शक्यो भूतेन केनचित्।
घटताऽपि चिरं कालं नियन्तुमिति मे मतिः॥ 11-8-19(64994)
देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम्।
तत्तेऽहं सम्प्रवक्ष्यामि यथा स्थैर्यं भवेत्तव॥ 11-8-20(64995)
पुराऽहं परितो यातः सभामैन्द्रीं जितक्लमः।
अपश्यं तत्र च सदा समवेतान्दिवौकसः॥ 11-8-21(64996)
नारदप्रमुखांश्चापि सर्वान्देवर्षिसत्तमान्।
तत्र चापि मया दृष्टा पृथिवी पृथिवीपते॥ 11-8-22(64997)
कार्यार्थमुपसम्पन्ना देवतानां समीपतः।
उपगम्य तदा धात्री देवानाह समागतान्॥ 11-8-23(64998)
यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा।
प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम्॥ 11-8-24(64999)
तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः।
उवाच वाक्यं प्रहसन्प्रभुस्तां देवसंसदि॥ 11-8-25(65000)
धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै।
दुर्योधन इति ख्यातः स ते कार्यं करिष्यति॥ 11-8-26(65001)
तं च प्राप्य महीपालं कृतकृत्या भविष्यसि।
तस्यार्थे पृथिवीपालाः कुरुक्षेत्रं समागताः॥ 11-8-27(65002)
अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः।
ततस्ते भविता देवि भारस्य युधि नाशनम्॥ 11-8-28(65003)
गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने।
स एष ते सुतो राजँल्लोकसंहारकारणात्॥ 11-8-29(65004)
कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप।
अमर्षी बलवाञ्शूरः क्रोधनो दुष्प्रसाधनः॥ 11-8-30(65005)
दैवयोगात्समुत्पन्ना भ्रातरस्तस्य तादृशाः।
शकुनिर्मातुलश्चैव कर्णश्च परमः सखा॥ 11-8-31(65006)
समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः।
[यादृशो जायते राजा तादृशोऽस्य जनो भवेत्॥ 11-8-32(65007)
अधर्मो धर्मतां याति स्वामी चेद्धार्मिको भवेत्।
स्वामिनो गुणदोषाभ्यां भृत्याः स्युर्नात्र संशयः॥ 11-8-33(65008)
दुष्टं राजानमासाद्य गतास्ते तनया नृप।]
एतमर्थं महाबाहो नारदो वेद तत्त्ववित्॥ 11-8-34(65009)
आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते।
मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम्॥ 11-8-35(65010)
न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत।
पुत्रास्तव दुरात्मानो यैरियं घातिता मही॥ 11-8-36(65011)
नारदेन च भद्रं ते पूर्वमेव न संशयः।
युधिष्ठिरस्य समितौ राजसूये निवेदितम्॥ 11-8-37(65012)
पाण्डवाः कौरवाः सर्वे समासाद्य परस्परम्।
नभविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर॥ 11-8-38(65013)
नारदस्य वचः श्रुत्वा तथाऽकुर्वत पाण्डवाः।
एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम्॥ 11-8-39(65014)
कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो।
स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम्॥ 11-8-40(65015)
एष चार्थो महाबाहो पूर्वमेव मया श्रुतः।
कथितो धर्मराजस्य राजसूये कुरूत्तम॥ 11-8-41(65016)
यतितं धर्मपुत्रेण मया गुह्ये निवेदिते।
अविग्रहे कौरवाणां दैवं तु बलवत्तरम्॥ 11-8-42(65017)
अनतिक्रमणीयो हि विधी राजन्कथञ्चन।
कृतान्तस्य तु भूतेन स्थावरेण चरेण च॥ 11-8-43(65018)
भवान्धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत।
मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च॥ 11-8-44(65019)
त्वां तु शोकेन सन्तप्तं मुह्यमानं मुहुर्मुहुः।
ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत्॥ 11-8-45(65020)
कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि।
स कथं त्वयि राजेन्द्र कृपां नैव करिष्यति॥ 11-8-46(65021)
मम चैव नियोगेन विधेश्चाप्यनिवर्तनाम्।
पाण्डवानां च कारुण्यात्प्राणान्धारय भारत॥ 11-8-47(65022)
एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति।
धर्मार्थः सुमहांस्तात तप्तं स्याच्च तपश्चिरात्॥ 11-8-48(65023)
पुत्रशोकं समुत्पन्नं हुताशं ज्वलितं यथा।
प्रज्ञाम्भसा महाराज निर्वापय सदा सता॥ 11-8-49(65024)
वैशम्पायन उवाच। 11-8-50x(5328)
तच्छ्रुत्वा तस्य वचनं व्यासस्यामिततेजसः।
मुहूर्तं समनुध्यायन्धृतराष्ट्रोऽभ्यभाषत॥ 11-8-50(65025)
महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम।
नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः॥ 11-8-51(65026)
इदं तु वचनं श्रुत्वा तव देवनियोगजम्।
धारयिष्याम्यहं प्राणान्यतिष्ये च न शोचितुं॥ 11-8-52(65027)
एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः।
धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत॥ ॥ 11-8-53(65028)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि अष्टमोऽध्यायः॥ 8 ॥*

Mahabharata - Strii Parva - Chapter Text
11-8-0(65029)
[जनमेजय उवाच। 11-8-0x(5329)
गते भगवति व्यासे धृतराष्ट्रो महीपतिः।
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि॥ 11-8-1(65030)
तथैव कौरवो राजा धर्मपुत्रो महामनाः।
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः॥ 11-8-2(65031)
अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः।
वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः॥ 11-8-3(65032)
वैशम्पायन उवाच। 11-8-4x(5330)
हते दुर्योधने चैव हते सैन्ये च सर्वशः।
सञ्जयो विगतप्रज्ञो धृतराष्ट्रमुपस्थितः॥ 11-8-4(65033)
सञ्जय उवाच। 11-8-5x(5331)
आगम्य नानादेशेभ्यो नानाजनपदेश्वराः।
पितृलोकं गता राजन्सर्वे तव सुतैः सह॥ 11-8-5(65034)
याच्यमानेन सततं तव पुत्रेण भारत।
घातिता पृथिवी सर्वा वैरस्यान्तं विधित्सता॥ 11-8-6(65035)
पुत्राणामथ पौत्राणां पितॄणां च महीपते।
आनुपूर्व्येण सर्वेषां प्रेतकार्याणि कारय॥ 11-8-7(65036)
वैशम्पायन उवाच। 11-8-8x(5332)
तच्छ्रुत्वा वचनं घोरं सञ्जयस्य महीपतिः।
गतासुरिव निश्चेष्टो न्यपतत्पृथिवीतले॥ 11-8-8(65037)
तं शयानमुपागम्य पृथिव्यां पृथिवीपतिम्।
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत्॥ 11-8-9(65038)
उत्तिष्ठ राजन्किं शेषे मा शुचो भरतर्षभ।
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः॥ 11-8-10(65039)
अभावादीनि भूतानि भावमध्यानि भारत।
अभावनिधनान्येव तत्र का परिदेवना॥ 11-8-11(65040)
न शोचन्मृतमन्वेति न शोचन्म्रियते नरः।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि॥ 11-8-12(65041)
अयुध्यमानो म्रियते युध्यमानस्तु जीवति।
कालं प्राप्य महाराज न कश्चिदतिवर्तते॥ 11-8-13(65042)
कालः कर्षति भूतानि सर्वाणि विविधानि च।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम॥ 11-8-14(65043)
यथा वायुस्तृणाग्राणि संवर्तपति सर्वतः।
तथा कालवशं यान्ति भूतानि भरतर्षभ॥ 11-8-15(65044)
एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम्।
यस्य कालः प्रयात्यग्रे तत्र का परिदेवना॥ 11-8-16(65045)
यांश्चापि निहतान्युद्धे राजंस्त्वमनुशोचसि।
न शोच्या हि माहत्मानः सर्वे ते त्रिदिवं गताः॥ 11-8-17(65046)
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया।
तथा स्वर्गमुपायान्ति यथा शूरास्तनुत्यजः॥ 11-8-18(65047)
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः।
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना॥ 11-8-19(65048)
शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः।
हूयमानाञ्शरांश्चैव सेहुरुत्तमपूरषाः॥ 11-8-20(65049)
एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम्।
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते॥ 11-8-21(65050)
क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः।
आशिषं परमां प्राप्ता न शोच्याः सर्व एव हि॥ 11-8-22(65051)
आत्मनाऽऽत्मानमाश्वास्य मा शुचः पुरुषर्षभ।
नाद्य शोकाभिभूतस्त्वं कार्यमुत्स्नष्टुमर्हसि॥ ॥ 11-8-23(65052)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि अध्यायः॥
Mahabharata - Strii Parva - Chapter Footnotes
11-8-29 कालः संहारकारणादिति क.छ.ठ.पाठः॥ 11-8-37 नारदेन समाख्यातमिति क.छ.ठ.पाठः॥ 11-8-39 तदाऽशोचन्त पाण्डवा इति झ.पाठः॥ 11-8-48 धर्मश्च सुमहास्तात तप्तस्य तपसश्चिरादिति क.छ.ठ.पाठः॥ 11-8-8 अष्टमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|